|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.19. अध्यायः 019
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्राह्मणेन कृष्णंप्रति जीवस्य गर्भप्रवेशादिप्रतिपादककाश्यपसिद्धसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मण उवाच।
शुभानामशुभानां च नेह नाशोस्ति कर्मणाम्।
प्राप्यप्राप्यानुपच्यन्ते क्षेत्रेक्षेत्रे तथातथा॥ 14-19-1(92897)
यथा प्रसूयमानस्तु फली दद्यात्फलं बहु।
तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्॥ 14-19-2(92898)
पापं चापि तथैव स्यात्पापेन मनसा कृतम्।
पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते॥ 14-19-3(92899)
यथा कर्मसमाविष्टः काममन्युसमावृतः।
नरो गर्भं प्रविशति तत्रापि शृणु चोत्तरम्॥ 14-19-4(92900)
शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्।
क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाऽशुभम्॥ 14-19-5(92901)
सौक्ष्म्यादव्यक्तयावाच्च न च क्वचन सज्जति।
सम्प्राप्य ब्राह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्॥ 14-19-6(92902)
तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः॥ 14-19-7(92903)
स जीवः सर्वभूतानां गर्भमाविश्य भागशः।
दधाति चेतना सद्यः प्राणस्थानेष्ववस्थितः।
ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥ 14-19-8(92904)
यथा लोहस्य विष्यन्दो निषिक्तो बिम्बविग्रहम्।
उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम्॥ 14-19-9(92905)
लोहपिण्डं यथा वह्निः प्रविश्य ह्यतितापयेत्।
तथा त्वमपि जानीहि गर्भे जीवोपपादनम्। 14-19-10(92906)
यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्।
एवमेव शरीराणि प्रकाशयति चेतनः॥ 14-19-11(92907)
यद्यच्च कुरुते कर्म शुभं वा यदि वाऽशुभम्।
पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥ 14-19-12(92908)
ततस्तु क्षीयते चैव पुनश्चान्यत्प्रचीयते।
यावत्तु मोक्षयोगस्थं धर्मं नैवावबुध्यते॥ 14-19-13(92909)
तत्ते धर्मं प्रवक्ष्यामि सुखी भवति येन वै।
आवर्तमानो जातीषु यथाऽन्योन्यासु सत्तम॥ 14-19-14(92910)
दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्।
दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥ 14-19-15(92911)
संयमश्चानृशंस्य च परस्वादानवर्जनम्।
व्यलीकानामकरणं भूताना मनसा भुवि॥ 14-19-16(92912)
मातापित्रोश्च शुश्रूषा देवतातितिपूजनम्।
गुरुपूजा घृणा शौचं नित्यमिन्द्रयसंयमः॥ 14-19-17(92913)
प्रवर्तनं शुभानां च तत्सतां व्रतमुच्यते।
ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥ 14-19-18(92914)
`सद्भिराचरितो धर्मः सदाचारे प्रतिष्ठितः।
उभयार्थो भवत्येव स्वर्गार्थो मोक्षतस्तथा॥'॥ 14-19-19(92915)
एवं सत्सु सदा पश्येत्तत्रछाप्येषा ध्रुवा स्थितिः।
आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः॥ 14-19-20(92916)
तेषु तत्कर्म निक्षिप्तं यः स धर्मः सनातनः।
यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥ 14-19-21(92917)
अतो नियम्यते लोकः प्रच्यवन्धर्मवर्त्मसु।
यश्च योगी च मुक्तश्च स ऐतेभ्यो विशिष्यते॥ 14-19-22(92918)
वर्तमानस्य धर्मेण पुरुषस्य यथा तथा।
संसारतारणं ह्यस्य कालेन महता भवेत्॥ 14-19-23(92919)
एवं पूर्वकृतं कर्म सर्वो जन्तुः प्रपद्यते।
सर्वं तत्कारणं येन निकृतोऽप्यमिहागतः॥ 14-19-24(92920)
शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्।
इत्येवं संशये लोके तच्च वक्ष्याम्यतः परम्॥ 14-19-25(92921)
शरीरमात्मनः कृत्वा सर्वलोकपितामहः।
त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥ 14-19-26(92922)
ततः प्रधानमसृजच्चेतनां तु शरीरिणाम्।
यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥ 14-19-27(92923)
इदं तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्।
त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्॥ 14-19-28(92924)
असृजत्सर्वभूतानि पूर्वदृष्टः प्रजापतिः।
स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥ 14-19-29(92925)
तस्य कालपरीमाणमकरोत्स पितामहः।
भूतेषु परिवृत्तिं च पनरावृत्तिमेव च॥ 14-19-30(92926)
यथा तु कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि।
यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते॥ 14-19-31(92927)
सुखदुःखे यथा सम्यगनित्ये यः प्रपश्यति।
कायं चामेध्यसंस्थानं विनाशं कर्मसंहितम्॥ 14-19-32(92928)
यच्च किञ्चित्सुखं तच्च दुःखं दृष्टमिति स्मरन्।
संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥ 14-19-33(92929)
जनीमरणरोगैश्च समाविष्टः प्रधानवित्।
चेतनाव्तसु चैतन्यं समं भूतेषु पश्यति॥ 14-19-34(92930)
निर्विद्यते ततः कश्चिन्मार्गमाणः परं पदम्।
तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥ 14-19-35(92931)
शाश्वतस्याव्ययस्याथ् यदस्य ज्ञानमुत्तमम्।
प्रोच्यमानं मया विप्र निबोधदमशेषतः॥ ॥ 14-19-36(92932)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोविंशोऽध्यायः॥ 19 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-19-2 फली वृक्षः। 7-19-8 तथापि तेजसा सम्यक्प्राणस्थाने इति थ. पाठः॥ 7-19-9 यथा स्वर्णद्रवः स्वल्पोति कृत्स्नां ताम्रप्रतिमां स्वर्णमयीमिव करोत्येवं गर्भे जीवप्रवेशनं। शरीरे सूक्ष्मस्यापि चैतन्यस्य व्याप्तिरित्याद्यस्य परिहारः॥ 7-19-28 क्षरं जडम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|